श्री सूक्त मंत्र

 श्री सूक्त मंत्र


ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । 

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥1॥


तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । 

यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥2॥


अश्वपूर्वा रथमध्यां हस्तिनादप्रबोधिनीम् । 

श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥3॥


कां सोस्मितां हिरण्युप्राकारामार्द्रा ज्वलन्तीं तृप्तां तर्पयन्तीम् । 

पद्म स्थितां पद्मवर्णा तामिहोपह्वये श्रियम् ॥4॥


प्रभासां यशसा लोके देवजुष्टामुदाराम् । 

पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥5॥


आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । 

तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥6॥


उपैतु मां देवसखः कीर्तिश्च मणिना सह । 

प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥7॥


क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । 

अभूतिमसमृद्धिं च सर्वां निर्णद गृहात् ॥8॥


गन्धद्वारा दुराधर्षां नित्यपुष्टां करीषिणीम् । 

ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥9॥


मनसः काममाकृतिं वाचः सत्यमशीमहि । 

पशूनां रूपमन्नस्य मयि श्रीः श्रयतां श्रयतां यशः ॥10॥


कर्दमेन प्रजाभूता सम्भव कर्दम । 

श्रियं वासय में कुले मातरं पद्ममालिनीम् ॥11॥


आपः सृजन्तु स्निग्धानि चिक्लीत वस गृहे । 

नि च देवी मातरं श्रियं वासय कुले ॥12॥


आर्द्रा पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । 

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥13॥


आर्द्रा यः करिणीं यष्टिं सुवर्णा हेममालिनीम् । 

सूर्या हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥14॥


तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । 

यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥15॥


यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । 

सूक्तं पञ्चदशर्च च श्रीकॉमः सततं जपेत् ॥16॥

नवधा भक्ति

  नवधा भक्ति   नवधा भकति कहउँ तोहि पाहीं। सावधान सुनु धरु मन माहीं।।   प्रथम भगति संतन्ह कर संगा। दूसरि रति मम कथा प्रसंगा। गुर प...