|| श्री गुरु पादुका स्तोत्रम् ||
(सरल गायन) रचयिता: आदि शंकराचार्य
अनंत-संसार
समुद्र-तार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
वैराग्य साम्राज्यद
पूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥1॥
कवित्व
वाराशिनिशाकराभ्यां दौर्भाग्यदावांबुदमालिकाभ्याम् ।
दूरिकृतानम्र
विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥2॥
नता ययोः श्रीपतितां
समीयुः कदाचिद-प्याशु दरिद्रवर्याः ।
मूकाश्च वाचस्पतितां
हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥3॥
नालीकनीकाश
पदाहृताभ्यां नानाविमोहादि-निवारिकाभ्यां ।
नमज्जनाभीष्टततिप्रदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥4॥
नृपालि
मौलिव्रजरत्नकांति सरिद्विराजत् झषकन्यकाभ्यां ।
नृपत्वदाभ्यां नतलोक
पंक्ते: नमो नमः श्रीगुरुपादुकाभ्याम् ॥5॥
पापांधकारार्क
परंपराभ्यां तापत्रयाहींद्र खगेश्र्वराभ्यां ।
जाड्याब्धि संशोषण
वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥6॥
शमादिषट्क
प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्यां ।
रमाधवांध्रिस्थिरभक्तिदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥7॥
स्वार्चापराणां
अखिलेष्टदाभ्यां स्वाहासहायाक्षधुरंधराभ्यां ।
स्वांताच्छभावप्रदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥8॥
कामादिसर्प
व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्यां ।
बोधप्रदाभ्यां
दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥9॥
|| इति श्री गुरु पादुका
स्तोत्रम् ||