दैवीय सम्पद्
अभयं
सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्।।
अहिंसा
सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ।।
तेजः
क्षमा धृतिः शौचमद्रोहो नातिमानिता।
भवति सम्पदं दैवीमभिजातस्य भारत ।।
दम्भो
दर्पोSभिमानश्च क्रोधः पारुष्यमेव च।
अज्ञानं चाभि जातस्य पार्थ सम्पदमासुरीम्।।
दैवी
सम्पद्विमोक्षाय निबन्धायासुरी मता।
मा शुचः सम्पदं दैवीमभि जातोSसि पाण्डव।।